Original

भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ।शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते ।उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते ॥ १४ ॥

Segmented

भाग्यम् नक्षत्रम् आक्रम्य सूर्यपुत्रेण पीड्यते शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशाम् पते उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते

Analysis

Word Lemma Parse
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
नक्षत्रम् नक्षत्र pos=n,g=n,c=2,n=s
आक्रम्य आक्रम् pos=vi
सूर्यपुत्रेण सूर्यपुत्र pos=n,g=m,c=3,n=s
पीड्यते पीडय् pos=v,p=3,n=s,l=lat
शुक्रः शुक्र pos=n,g=m,c=1,n=s
प्रोष्ठपदे प्रोष्ठपद pos=n,g=m,c=7,n=s
पूर्वे पूर्व pos=n,g=m,c=7,n=s
समारुह्य समारुह् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उत्तरे उत्तर pos=a,g=m,c=7,n=s
तु तु pos=i
परिक्रम्य परिक्रम् pos=vi
सहितः सहित pos=a,g=m,c=1,n=s
प्रत्युदीक्षते प्रत्युदीक्ष् pos=v,p=3,n=s,l=lat