Original

प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि ।जयन्त्यल्पतरा येन तन्निबोध विशां पते ॥ ७ ॥

Segmented

प्रज्ञया अभ्यधिकान् शूरान् गुण-युक्तान् बहून् अपि जयन्ति अल्पतराः येन तत् निबोध विशाम् पते

Analysis

Word Lemma Parse
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
अभ्यधिकान् अभ्यधिक pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
गुण गुण pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
अपि अपि pos=i
जयन्ति जि pos=v,p=3,n=p,l=lat
अल्पतराः अल्पतर pos=a,g=m,c=1,n=p
येन यद् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s