Original

धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् ।ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष ।अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥ १५ ॥

Segmented

धृतराष्ट्रस्य दायादा इति बीभत्सुः अब्रवीत् ब्रुवाणम् तु तथा पार्थम् सर्व-सैन्यानि मारिष अपूजयन् तदा वाग्भिः अनुकूलाभिः आहवे

Analysis

Word Lemma Parse
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
दायादा दायाद pos=n,g=m,c=1,n=p
इति इति pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तथा तथा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अनुकूलाभिः अनुकूल pos=a,g=f,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s