Original

सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः ।कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः ॥ ३५ ॥

Segmented

सर्व-लोक-ईश्वरस्य इव परमेष्ठि-प्रजापतेः कथम् प्रहर्तुम् अपि ते शेकुः संजय पाण्डवाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
इव इव pos=i
परमेष्ठि परमेष्ठिन् pos=n,comp=y
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
प्रहर्तुम् प्रहृ pos=vi
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
शेकुः शक् pos=v,p=3,n=p,l=lit
संजय संजय pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p