Original

एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा ।तूष्णीमासीच्छल्यसंतप्तमर्मा यत्वात्मानं वेदनां संनिगृह्य ॥ ५१ ॥

Segmented

एतद् वाक्यम् सौहृदाद् आपगेयो मध्ये राज्ञाम् भारतम् श्रावयित्वा तूष्णीम् आसीत् शल्य-संतप्त-मर्मा यत्वा आत्मानम् वेदनाम् संनिगृह्य

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सौहृदाद् सौहृद pos=n,g=n,c=5,n=s
आपगेयो आपगेय pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
भारतम् भारत pos=n,g=m,c=2,n=s
श्रावयित्वा श्रावय् pos=vi
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शल्य शल्य pos=n,comp=y
संतप्त संतप् pos=va,comp=y,f=part
मर्मा मर्मन् pos=n,g=m,c=1,n=s
यत्वा यम् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
वेदनाम् वेदना pos=n,g=f,c=2,n=s
संनिगृह्य संनिग्रह् pos=vi