Original

विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् ।दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् ॥ २६ ॥

Segmented

विनिवृत्तान् कुरून् दृष्ट्वा पाण्डवाः अपि स्व-सैनिकान् दूतैः शीघ्र-अश्व-संयुक्तैः अवहारम् अकारयन्

Analysis

Word Lemma Parse
विनिवृत्तान् विनिवृत् pos=va,g=m,c=2,n=p,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अपि अपि pos=i
स्व स्व pos=a,comp=y
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
दूतैः दूत pos=n,g=m,c=3,n=p
शीघ्र शीघ्र pos=a,comp=y
अश्व अश्व pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=m,c=3,n=p,f=part
अवहारम् अवहार pos=n,g=m,c=2,n=s
अकारयन् कारय् pos=v,p=3,n=p,l=lan