Original

सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः ।अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥ १७ ॥

Segmented

सेनापति-वचः श्रुत्वा सोमकाः सह सृञ्जयैः अभ्यद्रवन्त गाङ्गेयम् शस्त्र-वृष्ट्या समन्ततः

Analysis

Word Lemma Parse
सेनापति सेनापति pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सोमकाः सोमक pos=n,g=m,c=1,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
समन्ततः समन्ततः pos=i