Original

उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति ।तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥ १०० ॥

Segmented

उष्ण-आर्तः हि नरो यद्वत् जल-धाराः प्रतीच्छति तथा जग्राह गाङ्गेयः शर-धाराः शिखण्डिनः

Analysis

Word Lemma Parse
उष्ण उष्ण pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
हि हि pos=i
नरो नर pos=n,g=m,c=1,n=s
यद्वत् यद्वत् pos=i
जल जल pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
प्रतीच्छति प्रतीष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s