Original

द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः ।विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ॥ ३४ ॥

Segmented

द्रोणः तु विवरम् लब्ध्वा भीमसेनम् शिलीमुखैः विव्याध बाणैः सु शितैः पञ्चषष्ट्या तम् आयसैः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
विवरम् विवर pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
सु सु pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
पञ्चषष्ट्या पञ्चषष्टि pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
आयसैः आयस pos=a,g=m,c=3,n=p