Original

शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः ।आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ॥ २५ ॥

Segmented

शल्यः तु समरे जिष्णुम् क्रीडन्न् इव महा-रथः आजघान उरसि क्रुद्धो भल्लैः संनत-पर्वभिः

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
क्रीडन्न् क्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p