Original

कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ॥ २१ ॥

Segmented

कृपः च कृतवर्मा च सैन्धवः च जयद्रथः विन्द-अनुविन्दौ आवन्त्यौ आजग्मुः संयुगम् तदा

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
संयुगम् संयुग pos=n,g=n,c=2,n=s
तदा तदा pos=i