Original

ततो धनंजयस्तत्र वर्तमाने महारणे ।जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ।निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ॥ ४१ ॥

Segmented

ततो धनञ्जयः तत्र वर्तमाने महा-रणे जगाम स रथेन आजौ भीमम् दृष्ट्वा महा-रथम् निघ्नन्तम् समरे शत्रून् योधयानम् च सायकैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
योधयानम् योधय् pos=va,g=m,c=2,n=s,f=part
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p