Original

स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः ।ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ।गौतमं ताडयामास शरैर्बहुभिराहवे ॥ १२ ॥

Segmented

स विद्धो बहुभिः बाणैः तोत्त्रैः इव महा-द्विपः ततः क्रुद्धो महा-बाहुः भीमसेनः प्रतापवान् गौतमम् ताडयामास शरैः बहुभिः आहवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपः द्विप pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s