Original

तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी ।आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः ॥ ३७ ॥

Segmented

तस्य पार्थो धनुः छित्त्वा त्वरमाणः पराक्रमी आजघान ततः पश्चात् पुत्रम् ते नवभिः शरैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p