Original

ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः ।यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥ ३३ ॥

Segmented

ललाट-स्थैः तु तैः बाणैः शुशुभे पाण्डव-उत्तमः यथा मेरुः महा-राज शृङ्गैः अत्यर्थम् उच्छ्रितैः

Analysis

Word Lemma Parse
ललाट ललाट pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
पाण्डव पाण्डव pos=a,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
यथा यथा pos=i
मेरुः मेरु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
अत्यर्थम् अत्यर्थम् pos=i
उच्छ्रितैः उच्छ्रि pos=va,g=n,c=3,n=p,f=part