Original

ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ।दुःशासनं शतेनाजौ नाराचानां समार्पयत् ।ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ ३१ ॥

Segmented

ततो ऽर्जुनो जात-मन्युः वार्ष्णेयम् वीक्ष्य पीडितम् दुःशासनम् शतेन आजौ नाराचानाम् समार्पयत् ते तस्य कवचम् भित्त्वा पपुः शोणितम् आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
पपुः पा pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s