Original

स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ।आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ।नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥ ३० ॥

Segmented

स पाण्डवानाम् प्रवरान् पञ्च राजन् महा-रथान् आत्त-शस्त्रान् रणे यत्तान् वारयामास सायकैः नाराचैः वत्सदन्तैः च शितैः अञ्जलिकैः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
आत्त आदा pos=va,comp=y,f=part
शस्त्रान् शस्त्र pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
यत्तान् यत् pos=va,g=m,c=2,n=p,f=part
वारयामास वारय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
अञ्जलिकैः अञ्जलिक pos=n,g=m,c=3,n=p
तथा तथा pos=i