Original

संजय उवाच ।आचक्षे ते महाराज यदकार्षीत्पितामहः ।पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ॥ २६ ॥

Segmented

संजय उवाच आचक्षे ते महा-राज यद् अकार्षीत् पितामहः पीडिते तव पुत्रस्य सैन्ये पाण्डव-सृञ्जयैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचक्षे आचक्ष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
पितामहः पितामह pos=n,g=m,c=1,n=s
पीडिते पीडय् pos=va,g=n,c=7,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p