Original

तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः ।ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ॥ ७० ॥

Segmented

तस्याम् गृध्यन्ति राजानः शूरा धर्म-अर्थ-कोविदाः ते त्यजन्ति आहवे प्राणान् रसा-गृद्धाः तरस्विनः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
गृध्यन्ति गृध् pos=v,p=3,n=p,l=lat
राजानः राजन् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
आहवे आहव pos=n,g=m,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
रसा रसा pos=n,comp=y
गृद्धाः गृध् pos=va,g=m,c=1,n=p,f=part
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p