Original

एष गाण्डीमयश्चापो लोकसंहारसंभृतः ।रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ॥ १९ ॥

Segmented

एष गाण्डीमयः चापः लोक-संहार-संभृतः रक्ष्यते दैवतैः नित्यम् यतस् तत् गाण्डिवम् धनुः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
गाण्डीमयः गाण्डीमय pos=a,g=m,c=1,n=s
चापः चाप pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
संहार संहार pos=n,comp=y
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
दैवतैः दैवत pos=n,g=n,c=3,n=p
नित्यम् नित्यम् pos=i
यतस् यतस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s