Original

दम्भोद्भव उवाच ।बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः ।भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ।आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ॥ २० ॥

Segmented

दम्भोद्भव उवाच बाहुभ्याम् मे जिता भूमिः निहताः सर्व-शत्रवः भवद्भ्याम् युद्धम् आकाङ्क्षन्न् उपयातो ऽस्मि पर्वतम् आतिथ्यम् दीयताम् एतत् काङ्क्षितम् मे चिरम् प्रति

Analysis

Word Lemma Parse
दम्भोद्भव दम्भोद्भव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
मे मद् pos=n,g=,c=6,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p
भवद्भ्याम् भवत् pos=a,g=m,c=3,n=d
युद्धम् युद्ध pos=n,g=n,c=2,n=s
आकाङ्क्षन्न् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
उपयातो उपया pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
चिरम् चिरम् pos=i
प्रति प्रति pos=i