Original

स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् ।गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥ ४५ ॥

Segmented

स भवान् मातृ-पितृ-वत् अस्मासु प्रतिपद्यताम् गुरोः गरीयसी वृत्तिः या च शिष्यस्य भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मातृ मातृ pos=n,comp=y
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
प्रतिपद्यताम् प्रतिपद् pos=v,p=3,n=s,l=lot
गुरोः गुरु pos=n,g=m,c=6,n=s
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s