Original

वैशंपायन उवाच ।तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु ।वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥ १ ॥

Segmented

वैशंपायन उवाच तेषु आसीनेषु सर्वेषु तूष्णींभूतेषु राजसु वाक्यम् अभ्याददे कृष्णः सु दंष्ट्रः दुन्दुभि-स्वनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषु तद् pos=n,g=m,c=7,n=p
आसीनेषु आस् pos=va,g=m,c=7,n=p,f=part
सर्वेषु सर्व pos=n,g=m,c=7,n=p
तूष्णींभूतेषु तूष्णींभूत pos=a,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अभ्याददे अभ्यादा pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सु सु pos=i
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
दुन्दुभि दुन्दुभि pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s