Original

तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः ।गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः ॥ १८ ॥

Segmented

तेषाम् हेम-परिष्काराः युक्ताः परम-वाजिभिः गच्छताम् घोषिणः चित्राः चारु बभ्राजिरे रथाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
हेम हेमन् pos=n,comp=y
परिष्काराः परिष्कार pos=n,g=m,c=1,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
घोषिणः घोषिन् pos=a,g=m,c=1,n=p
चित्राः चित्र pos=a,g=m,c=1,n=p
चारु चारु pos=a,g=n,c=2,n=s
बभ्राजिरे भ्राज् pos=v,p=3,n=p,l=lit
रथाः रथ pos=n,g=m,c=1,n=p