Original

तेषां समुपविष्टानां सर्वेषां पापचेतसाम् ।तव मध्यावतरणं मम कृष्ण न रोचते ॥ १५ ॥

Segmented

तेषाम् समुपविष्टानाम् सर्वेषाम् पाप-चेतसाम् तव मध्य-अवतरणम् मम कृष्ण न रोचते

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समुपविष्टानाम् समुपविश् pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पाप पाप pos=a,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
मध्य मध्य pos=n,comp=y
अवतरणम् अवतरण pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat