Original

वैशंपायन उवाच ।एवं वदति वाक्यं तु युयुधाने महामतौ ।सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥ ८ ॥

Segmented

वैशंपायन उवाच एवम् वदति वाक्यम् तु युयुधाने महामतौ सु भीमः सिंहनादो ऽभूद् योधानाम् तत्र सर्वशः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
वदति वद् pos=va,g=m,c=7,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
युयुधाने युयुधान pos=n,g=m,c=7,n=s
महामतौ महामति pos=a,g=m,c=7,n=s
सु सु pos=i
भीमः भीम pos=a,g=m,c=1,n=s
सिंहनादो सिंहनाद pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
योधानाम् योध pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
सर्वशः सर्वशस् pos=i