Original

अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः ।नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः ॥ २ ॥

Segmented

अमर्षी नित्य-संरब्धः श्रेयः-द्वेषी महामनाः न उग्रम् दुर्योधनो वाच्यः साम्ना एव एनम् समाचरेः

Analysis

Word Lemma Parse
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
श्रेयः श्रेयस् pos=n,comp=y
द्वेषी द्वेषिन् pos=a,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समाचरेः समाचर् pos=v,p=2,n=s,l=vidhilin