Original

सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः ।कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥ २९ ॥

Segmented

सो ऽभ्ययात् कृतवर्माणम् धृतराष्ट्र-सुतः नृपः कृतवर्मा ददौ तस्य सेनाम् अक्षौहिणीम् तदा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
तदा तदा pos=i