Original

एतानेतावतस्तत्र यानपश्यं समागतान् ।ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥ १० ॥

Segmented

एतान् एतावतः तत्र यान् अपश्यम् समागतान् ये पाण्डव-अर्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
एतावतः एतावत् pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
यान् यद् pos=n,g=m,c=2,n=p
अपश्यम् पश् pos=v,p=1,n=s,l=lan
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s