Original

माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः ।समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ॥ १५ ॥

Segmented

माद्री-पुत्रम् नकुलम् तु आजमीढम् महा-इन्द्र-दत्ताः हरयो वाजि-मुख्याः समा वायोः बलवन्तः तरस्विनः वहन्ति वीरम् वृत्रशत्रुम् यथा इन्द्रम्

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
तु तु pos=i
आजमीढम् आजमीढ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
दत्ताः दा pos=va,g=m,c=1,n=p,f=part
हरयो हरि pos=n,g=m,c=1,n=p
वाजि वाजिन् pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
समा सम pos=n,g=f,c=1,n=s
वायोः वायु pos=n,g=m,c=6,n=s
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
वीरम् वीर pos=n,g=m,c=2,n=s
वृत्रशत्रुम् वृत्रशत्रु pos=n,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s