Original

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः ।अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः ॥ ७ ॥

Segmented

पित्र्यम् राज्यम् महा-राज कुरवः ते स जाङ्गलाः अथ वीरैः जिताम् भूमिम् अखिलाम् प्रत्यपद्यथाः

Analysis

Word Lemma Parse
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
जाङ्गलाः जाङ्गल pos=n,g=m,c=1,n=p
अथ अथ pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
जिताम् जि pos=va,g=f,c=2,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
प्रत्यपद्यथाः प्रतिपद् pos=v,p=2,n=s,l=lan