Original

वैशंपायन उवाच ।जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः ।सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥ १० ॥

Segmented

वैशंपायन उवाच जगाम शक्रः तत् श्रुत्वा यत्र तौ तेपतुः तपः सार्धम् देव-गणैः सर्वैः बृहस्पति-पुरोगमैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जगाम गम् pos=v,p=3,n=s,l=lit
शक्रः शक्र pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
तेपतुः तप् pos=v,p=3,n=d,l=lit
तपः तपस् pos=n,g=n,c=2,n=s
सार्धम् सार्धम् pos=i
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
बृहस्पति बृहस्पति pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p