Original

पूर्वाह्णे मां कृतजप्यं कदाचिद्विप्रः प्रोवाचोदकान्ते मनोज्ञम् ।कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं ते शत्रुभिः सव्यसाचिन् ॥ ६१ ॥

Segmented

पूर्वाह्णे माम् कृत-जप्यम् कदाचिद् विप्रः प्रोवाच उदक-अन्ते मनोज्ञम् कर्तव्यम् ते दुष्करम् कर्म पार्थ योद्धव्यम् ते शत्रुभिः सव्यसाचिन्

Analysis

Word Lemma Parse
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
कृत कृ pos=va,comp=y,f=part
जप्यम् जप्य pos=n,g=m,c=2,n=s
कदाचिद् कदाचिद् pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
उदक उदक pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मनोज्ञम् मनोज्ञ pos=a,g=n,c=2,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
सव्यसाचिन् सव्यसाचिन् pos=n,g=m,c=8,n=s