Original

यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा ।सिंहस्येव गन्धमाघ्राय गावः संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः ॥ ४२ ॥

Segmented

यदा धृतिम् कुरुते योत्स्यमानः स दीर्घ-बाहुः दृढ-धन्वा महात्मा सिंहस्य इव गन्धम् आघ्राय गावः संवेष्टन्ते शत्रवो ऽस्माद् यथा अग्नेः

Analysis

Word Lemma Parse
यदा यदा pos=i
धृतिम् धृति pos=n,g=f,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
योत्स्यमानः युध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
इव इव pos=i
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
गावः गो pos=n,g=,c=1,n=p
संवेष्टन्ते संवेष्ट् pos=v,p=3,n=p,l=lat
शत्रवो शत्रु pos=n,g=m,c=1,n=p
ऽस्माद् इदम् pos=n,g=m,c=5,n=s
यथा यथा pos=i
अग्नेः अग्नि pos=n,g=m,c=5,n=s