Original

यदा द्रष्टा सृञ्जयानामनीके धृष्टद्युम्नं प्रमुखे रोचमानम् ।अस्त्रं यस्मै गुह्यमुवाच धीमान्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥ ३७ ॥

Segmented

यदा द्रष्टा सृञ्जयानाम् अनीके धृष्टद्युम्नम् प्रमुखे रोचमानम् अस्त्रम् यस्मै गुह्यम् उवाच धीमान् द्रोणः तदा तप्स्यति धार्तराष्ट्रः

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
अनीके अनीक pos=n,g=n,c=7,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
रोचमानम् रुच् pos=va,g=m,c=2,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
यस्मै यद् pos=n,g=m,c=4,n=s
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तदा तदा pos=i
तप्स्यति तप् pos=v,p=3,n=s,l=lrt
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s