Original

ज्येष्ठं मात्स्यानामनृशंसरूपं विराटपुत्रं रथिनं पुरस्तात् ।यदा द्रष्टा दंशितं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३४ ॥

Segmented

ज्येष्ठम् मात्स्यानाम् अनृशंस-रूपम् विराट-पुत्रम् रथिनम् पुरस्तात् यदा द्रष्टा दंशितम् पाण्डव-अर्थे तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
मात्स्यानाम् मात्स्य pos=n,g=m,c=6,n=p
अनृशंस अनृशंस pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
विराट विराट pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रथिनम् रथिन् pos=n,g=m,c=2,n=s
पुरस्तात् पुरस्तात् pos=i
यदा यदा pos=i
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
दंशितम् दंशय् pos=va,g=m,c=2,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn