Original

यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान्सुघोरम् ।अवस्रष्टा कुरुषूद्वृत्तचेतास्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १२ ॥

Segmented

यदा ज्येष्ठः पाण्डवः संशित-आत्मा क्रोधम् यत् तम् वर्ष-पूगान् सु घोरम् अवस्रष्टा कुरुषु उद्वृत्त-चेताः तदा युद्धम् धार्तराष्ट्रो ऽन्वतप्स्यत्

Analysis

Word Lemma Parse
यदा यदा pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
यत् यत् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
अवस्रष्टा अवसृज् pos=v,p=3,n=s,l=lrt
कुरुषु कुरु pos=n,g=m,c=7,n=p
उद्वृत्त उद्वृत् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽन्वतप्स्यत् अनुतप् pos=v,p=3,n=s,l=lrn