Original

एवं वसन्तं यदुपप्लवेद्धनमाचार्याय तदनुप्रयच्छेत् ।सतां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥ १२ ॥

Segmented

एवम् वसन्तम् यद् उपप्लवेद् धनम् आचार्याय तद् अनुप्रयच्छेत् सताम् वृत्तिम् बहु-गुणाम् एवम् एति गुरोः पुत्रे भवति च वृत्तिः एषा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
उपप्लवेद् उपप्लु pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=1,n=s
आचार्याय आचार्य pos=n,g=m,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुप्रयच्छेत् अनुप्रयम् pos=v,p=3,n=s,l=vidhilin
सताम् सत् pos=a,g=m,c=6,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
बहु बहु pos=a,comp=y
गुणाम् गुण pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
एति pos=v,p=3,n=s,l=lat
गुरोः गुरु pos=n,g=m,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s