Original

अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् ।नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ।ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ॥ २८ ॥

Segmented

अनैभृत्येन वै तस्य दीक्षित-व्रतम् आचरेत् नाम एतत् धातु-निर्वृत्तम् सत्यम् एव सताम् परम् ज्ञानम् वै नाम प्रत्यक्षम् परोक्षम् जायते तपः

Analysis

Word Lemma Parse
अनैभृत्येन अनैभृत्य pos=n,g=n,c=3,n=s
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दीक्षित दीक्ष् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
नाम नाम pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
धातु धातु pos=n,comp=y
निर्वृत्तम् निर्वृत् pos=va,g=n,c=1,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
सताम् सत् pos=a,g=m,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
वै वै pos=i
नाम नाम pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
परोक्षम् परोक्ष pos=a,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,g=n,c=1,n=s