Original

उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम् ॥ १६ ॥

Segmented

उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः अग्नौ प्रास्तम् तु पुरुषम् कर्म अन्वेति स्वयंकृतम्

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
विनिवर्तन्ते विनिवृत् pos=v,p=3,n=p,l=lat
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रास्तम् प्रास् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
स्वयंकृतम् स्वयंकृत pos=a,g=n,c=1,n=s