Original

नित्यं सन्तः कुले जाताः पावकोपमतेजसः ।क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ १४ ॥

Segmented

नित्यम् सन्तः कुले जाताः पावक-उपम-तेजसः क्षमावन्तो निराकाराः काष्ठे ऽग्निः इव शेरते

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
सन्तः सत् pos=a,g=m,c=1,n=p
कुले कुल pos=n,g=n,c=7,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
पावक पावक pos=n,comp=y
उपम उपम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
क्षमावन्तो क्षमावत् pos=a,g=m,c=1,n=p
निराकाराः निराकार pos=a,g=m,c=1,n=p
काष्ठे काष्ठ pos=n,g=n,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
शेरते शी pos=v,p=3,n=p,l=lat