Original

अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ १२ ॥

Segmented

अव्याहृतम् व्याहृतात् श्रेयः आहुः सत्यम् वदेद् व्याहृतम् तद् द्वितीयम् प्रियम् वदेद् व्याहृतम् तत् तृतीयम् धर्म्यम् वदेद् व्याहृतम् तत् चतुर्थम्

Analysis

Word Lemma Parse
अव्याहृतम् अव्याहृत pos=a,g=n,c=2,n=s
व्याहृतात् व्याहृ pos=va,g=n,c=5,n=s,f=part
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सत्यम् सत्य pos=n,g=n,c=2,n=s
वदेद् वद् pos=v,p=3,n=s,l=vidhilin
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वदेद् वद् pos=v,p=3,n=s,l=vidhilin
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
वदेद् वद् pos=v,p=3,n=s,l=vidhilin
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
चतुर्थम् चतुर्थ pos=a,g=n,c=1,n=s