Original

तृणोल्कया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः ।शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ॥ ४२ ॥

Segmented

तृण-उल्कया ज्ञायते जातरूपम् युगे भद्रो व्यवहारेण साधुः शूरो भयेषु अर्थ-कृच्छ्रेषु धीरः कृच्छ्रासु आपत्सु सुहृदः च अरयः च

Analysis

Word Lemma Parse
तृण तृण pos=n,comp=y
उल्कया उल्का pos=n,g=f,c=3,n=s
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
जातरूपम् जातरूप pos=n,g=n,c=1,n=s
युगे युग pos=n,g=n,c=7,n=s
भद्रो भद्र pos=a,g=m,c=1,n=s
व्यवहारेण व्यवहार pos=n,g=m,c=3,n=s
साधुः साधु pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
भयेषु भय pos=n,g=n,c=7,n=p
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
धीरः धीर pos=a,g=m,c=1,n=s
कृच्छ्रासु कृच्छ्र pos=a,g=f,c=7,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
अरयः अरि pos=n,g=m,c=1,n=p
pos=i