Original

सुधन्वोवाच ।पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ १६ ॥

Segmented

सुधन्वा उवाच पितरम् ते गमिष्यावः प्राणयोः विपणे कृते पुत्रस्य अपि स हेतोः हि प्रह्रादो न अनृतम् वदेत्

Analysis

Word Lemma Parse
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
गमिष्यावः गम् pos=v,p=1,n=d,l=lrt
प्राणयोः प्राण pos=n,g=m,c=6,n=d
विपणे विपण pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
हेतोः हेतु pos=n,g=m,c=6,n=s
हि हि pos=i
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin