Original

असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन ।मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ ४३ ॥

Segmented

असन्तो ऽभ्यर्थिताः सद्भिः किंचित् कार्यम् कदाचन मन्यन्ते सन्तम् आत्मानम् असन्तम् अपि विश्रुतम्

Analysis

Word Lemma Parse
असन्तो असत् pos=a,g=m,c=1,n=p
ऽभ्यर्थिताः अभ्यर्थय् pos=va,g=m,c=1,n=p,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कार्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
कदाचन कदाचन pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सन्तम् सत् pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
असन्तम् असत् pos=a,g=m,c=2,n=s
अपि अपि pos=i
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part