Original

संजय उवाच ।संजयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् ।अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् ॥ ७ ॥

Segmented

संजय उवाच संजयो ऽहम् भूमिपते नमः ते प्राप्तो ऽस्मि गत्वा नरदेव पाण्डवान् अभिवाद्य त्वाम् पाण्डु-पुत्रः मनस्वी युधिष्ठिरः कुशलम् च अन्वपृच्छत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजयो संजय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भूमिपते भूमिपति pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गत्वा गम् pos=vi
नरदेव नरदेव pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
अन्वपृच्छत् अनुप्रछ् pos=v,p=3,n=s,l=lan