Original

सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति ।पश्याम्यहं युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् ॥ ४१ ॥

Segmented

सन्ति एव मे ब्राह्मणेभ्यः कृतानि भावीनि अथो नो बत वर्तयन्ति पश्यामि अहम् युक्त-रूपान् तथा एव ताम् एव सिद्धिम् श्रावयेथा नृपम् तम्

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
भावीनि भाविन् pos=a,g=n,c=1,n=p
अथो अथो pos=i
नो मद् pos=n,g=,c=6,n=p
बत बत pos=i
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
युक्त युक्त pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
श्रावयेथा श्रावय् pos=v,p=2,n=s,l=vidhilin
नृपम् नृप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s