Original

शारद्वतस्यावसथं स्म गत्वा महारथस्यास्त्रविदां वरस्य ।त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ संजय पाणिना स्पृशेः ॥ १२ ॥

Segmented

शारद्वतस्य आवसथम् स्म गत्वा महा-रथस्य अस्त्र-विदाम् वरस्य त्वम् माम् अभीक्ष्णम् परिकीर्तयन् वै कृपस्य पादौ संजय पाणिना स्पृशेः

Analysis

Word Lemma Parse
शारद्वतस्य शारद्वत pos=n,g=m,c=6,n=s
आवसथम् आवसथ pos=n,g=m,c=2,n=s
स्म स्म pos=i
गत्वा गम् pos=vi
महा महत् pos=a,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरस्य वर pos=a,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभीक्ष्णम् अभीक्ष्णम् pos=i
परिकीर्तयन् परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
संजय संजय pos=n,g=m,c=8,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
स्पृशेः स्पृश् pos=v,p=2,n=s,l=vidhilin