Original

मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमा अभ्युपैति ।अतन्द्रितो दहते जातवेदाः समिध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥ ९ ॥

Segmented

मास-अर्ध-मासान् अथ नक्षत्र-योगान् अतन्द्रितः चन्द्रमाः अभ्युपैति अतन्द्रितो दहते जातवेदाः समिध्यमानः कर्म कुर्वन् प्रजाभ्यः

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मासान् मास pos=n,g=m,c=2,n=p
अथ अथ pos=i
नक्षत्र नक्षत्र pos=n,comp=y
योगान् योग pos=n,g=m,c=2,n=p
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
अतन्द्रितो अतन्द्रित pos=a,g=m,c=1,n=s
दहते दह् pos=v,p=3,n=s,l=lat
जातवेदाः जातवेदस् pos=n,g=m,c=1,n=s
समिध्यमानः समिन्ध् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
प्रजाभ्यः प्रजा pos=n,g=f,c=4,n=p