Original

सोऽयं विधिर्विहितः कर्मणैव तद्वर्तते संजय तत्र कर्म ।तत्र योऽन्यत्कर्मणः साधु मन्येन्मोघं तस्य लपितं दुर्बलस्य ॥ ७ ॥

Segmented

सो ऽयम् विधिः विहितः कर्मणा एव तद् वर्तते संजय तत्र कर्म तत्र यो ऽन्यत् कर्मणः साधु मन्येत् मोघम् तस्य लपितम् दुर्बलस्य

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कर्मणः कर्मन् pos=n,g=n,c=5,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्येत् मन् pos=v,p=3,n=s,l=vidhilin
मोघम् मोघ pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लपितम् लप् pos=va,g=n,c=1,n=s,f=part
दुर्बलस्य दुर्बल pos=a,g=m,c=6,n=s